Sanskrit bhasha pracharni sabha
संस्कृत-परीक्षा
संस्कृत-भाषा-प्रचारि-सभायाः परीक्षाकार्यम् संस्कृतस्य प्रचारार्थं सभया नैके उपक्रमाः अङ्गीकृताः। पुनश्च अपर: वैशिष्ट्यपूर्णः उपक्रमः नाम सभायाः संस्कृतपरीक्षाः। प्रायः पञ्चपञ्चाशत् वर्षेभ्यः सभया भिन्नभिन्नपरीक्षाणाम् आयोजनं क्रियते। संस्कृतं सरलेन सम्भाषणेन जनाभिमुखं भवतु, बालानां कण्ठस्थं च भवतु इत्येतदर्थम् एषः उपक्रमः प्रारब्धः। अधुना अभ्यासार्थं यदि प्रश्नपत्रिकाः प्राप्तव्याः तर्हि बहूनि साधनानि सन्ति । (टेस्ट सीरिज अर्थात् -) परीक्षा-मालिका सदृशाः उपाया: उपलब्धाः। एतादृशं किमपि यदा नोपलब्ध तदा आरब्धाः एता: परीक्षाः। अत एव लोकप्रियाः फलदायिन्यः च सञ्जाता: इति अपि सर्वविदितम्। परीक्षाणाम् आयोजनस्य कल्पना प्रत्यक्षीकर्तुं समर्थः विद्वद्वर्यः आसीत् परमादरणीयः, स्नेहशीलः, छात्रप्रियः च श्री. स. ना. कुलकर्णी-महोदयः। सभायाः संस्थापक-प्रमुख-कार्यवाहः तत्रभवान् द्रष्टा खलु। परीक्षा-स्वरूपस्य आकृतिलेखनं (श्रिळपश) तेन एवं सुचारुरूपेण कृतमस्ति यथा प्रदीर्घकालतः प्रचलत् एतद् परीक्षाकार्यं सभायाः वैशिष्ट्यं सभा-परिचयः च अभवत्। श्री. स. ना. कुलकर्णी महोदयाय शतशः प्रणामाः। तदा श्री. पुरुषोत्तम कृष्ण मोहनी (आण्णा) महोदयः अस्मिन् कार्ये श्री. कुलकर्णी महोदयस्य महत्त्वपूर्णः सहकारी।। एवं परीक्षाकार्यम् आरब्धम्। उत्तीर्णाः छात्राः प्रमाणपत्रं प्राप्स्यन्ति इति निश्चितम्। तेन छात्रस्य संस्कृतज्ञानवर्धनं संस्कृते रुचिवर्धनं च भविष्यतः इत्येतद्विषये तदापि शङ्कालेश: नासीत् । तथापि तस्य प्रमाणपत्रस्य किञ्चित् व्यावहारिक मूल्यं वर्धताम् इत्यतः भूरिपरिश्रमैः तैः तत्कालीनस्य राज्यसर्वकारस्य सम्प्राप्ता राजमान्यता अस्माकम् आनन्दविषयः।
प्रज्ञाभारती डॉ. श्री.भा.वर्णेकर, डॉ. के. रा. जोशी, डॉ. स. मो. अयाचित, डॉ. गु. वा. पिम्पळापुरे, डॉ. नी. र. व हाड-पाण्डे, डॉ. श्रीकान्त जिचकार:, डॉ. पङ्कज चान्दे, श्री. नं. र. पत्तरकिने, प्रा. कमलताई बूट, डॉ. लीना रस्तोगी, डॉ. चन्द्रगुप्त वर्णेकर, श्री. श्रीधर घुशे, श्री. मधुकरशास्त्री आर्वीकर, श्री. द. के. गोसावी, प्रा. विमलताई काणे, श्रीमती सविता कुलकर्णी, श्रीमती दुर्गा पारखी, डॉ. सन्ध्या गाडगे, डॉ. स्मिता होटे, श्रीमती श्रद्धा तेलंग च इत्येतानि सभासम्बद्धानि नामानि। तथैव पज्यानां बाबासाहेब आपटेवर्याणां. बाळासाहेब देवरसानां कृपादृष्टि: सदैवासीत्। स्वनामधन्याः एते सस्कृत-परिवारस्य कृते मार्गदर्शकाः अभिमानविषयाश्च।। परीक्षाकार्यं विशालं, कुत्रचित् जटिलं, नैकेषां सह-कार्यावलम्बि च। सर्वप्रथमं सौ. अनुश्री जोशीभगिन्या: उल्लेख: अनिवार्यः । गतेभ्यः सप्तदशवर्षेभ्यः कार्यालयीनं कार्यभारं निर्वहति एषा संस्कृतभगिनी। विभिन्नपरीक्षाकेन्द्राणां केन्द्रप्रमुखाः, संस्कृत-शिक्षकाः/शिक्षिकाः, छात्राः, पालकवृन्दः, अन्ये प्रमाणपत्र-लेखकाः, मुद्रकः, प्रकाशकः, कुरिअरसेवाकरः च इत्येते सर्वे अस्माकं हितचिन्तकाः। एतेषां शुभेच्छा: एव अस्माकं भाग्यविषयः।
प्रश्नपत्रिकास्वरूपम्। आरम्भत: ख्रिस्ताब्दस्य २०१३-१४ पर्यन्तं प्रश्नपत्रिकाणां स्वरूपं राज्यमण्डलनिर्दिष्टं प्रारूपम् अनुसृत्य भवति स्म। भाषान्तरप्रश्नोत्तरस्वरूपिण्यः भवन्ति स्म प्रश्नपत्रिकाः। उत्तरपत्रिका: भिन्नाः भवन्ति स्म। ख्रिस्ताब्दस्य २०१३-१४ तः शनैः शनैः तत्र परिवर्तनं कृतं परीक्षाविभागेन। तदर्थं तत्कालीनः सभाध्यक्ष: मा. डॉ. नी. र. व-हाडपाण्डे महोदयः सहर्षम् अनुमति दत्तवान्। मा. सचिववर्यः डॉ. चन्द्रगुप्त वर्णेकर महोदयः अपि अनुमोदनं दत्तवान् इत्यतः धन्याः वयम्। तदाप्रभृति परीक्षासु परिवर्तनं कृतम्। राज्यमण्डलेनापि अस्माकं संस्कृतानुकूला सरणिः प्राधान्येन अनुसृता दृश्यते। तदर्थं राज्यमण्डलं प्रति सभाजनाः कृतज्ञाः। परिवर्तनबिन्दवः। श्र नूतना: परीक्षा: व्याकरणाधिष्ठिताः। श्र छात्राणां पाठ्यक्रम अन्तर्भूतं व्याकरणम् अनुलक्ष्य एव प्रश्नपत्रिकानिर्माणं भवति। व्याकरणाभ्यासपरीक्षाः इत्येव अस्ति परीक्षाणां स्वरूपम्।
प्रश्नपत्रिका: वस्तुनिष्ठस्वरूपम् अनुसरन्ति। प्रश्नपत्रिकायाम् एव उत्तराणि लेखनीयानि । श्र इदानीं परीक्षासमय: न्यूनीभूतः इति सविशेषम् अवधार्यम्। प्रश्नकुम्भ-नाम्नी नूतना परीक्षा एकहोरात्मिका इति सविशेष
निवेदनीयम्। तत्र पञ्चाशत् पूर्णाङ्काः भवन्ति। श्र अनेन नूतनोपक्रमेण उत्तरपत्रिकामूल्याङ्कनस्य परीक्षाफलदानस्य च गति: वर्धिता। श्र ख्रिस्ताब्दस्य २०१४-१५ तः प्रबोध विशेष, प्रवेश विशेष, परिचय विशेष च इत्येता: परीक्षाः सीबीएस्ई छात्राणां कृते
प्रारब्धाः । अत्रान्तरे पूर्वा नाम्नी काचित् परीक्षा प्रारब्धा। तस्याः स्वरूपं मौखिकं लेखनार्हम् चेति द्विविधम्। शतं पूर्णाङ्काः। समयः होरात्रयम्। उपर्युक्ताः सर्वाः परीक्षाः राज्यमण्डलनिर्देशाधारितं प्रश्न-पत्रम् अनुसृत्य भवन्ति स्म। (बोर्ड पॅटर्न इत्येष: आधारः तदनु प्रश्न-पत्रनिर्माणः, तदनु श्रेणी, परीक्षाफलं च। एवम् आसीत् स्वरूपम्।)
नूतनपरीक्षापद्धतेः उद्दिष्टानि। श्र संस्कृतभाषायाः प्रचारः प्रसारश्चेति प्रमुखम् उद्दिष्टम्। श्र संस्कृतव्याकरणबिन्दूनां पठनानुकूलं पाठनानुकूलं च क्रमं जानन्तु छात्रा: शिक्षका: च। श्र छात्राणां व्याकरणभयं न्यूनीभवतु। श्र केवलं रटनापेक्षया किञ्चित् विचार्य, बुद्धेः सम्यक् उपयोगं कृत्वा उत्तराणि लिखित्वा आनन्दम् अनुभवन्तु। अङ्कानां लाभ: तु आनुषङ्गिकं फलम्। ज्ञानानन्दलाभः एव महत्त्वपूर्णः खलु जीवन-साफल्यार्थम्। श्र प्रमाणपत्रप्रदानेन छात्राणां ज्ञानलाभः प्रमाणितः भवतु। श्र संस्कृतशिक्षकाणां कृते सभाकार्यम् अनुकूलं सहायकं च भवतु। श्र व्याकरणज्ञानेन छात्राणां मनस्सु आत्मविश्वासजागरणम्, तदनु संस्कृतानुकूलतानिर्माणम्। तेन भारतीयसंस्कृतिरक्षणम् अपेक्षितम्, उत्प्रेक्षितम् च।
• डॉ. सौ. हंसश्री: मराठे परीक्षा विभाग प्रमुखः, सं.भा.प्र.स., नागपुरम्
Copyright © Sanskrit bhasha pracharni sabha All rights reserved.