Sanskrit bhasha pracharni sabha

Donation/Payment

अनुदानानि/विज्ञापनानि च

राज्यशासनस्य शिक्षाविभागत: ग्रन्थालयस्य कृते व्याख्यानायोजनाय च प्रतिवर्ष स्वीकृतव्ययस्य अर्धम् (अधिकाधिकं पञ्चसहस्ररूप्यकं) धनम् अनुदानरूपेण सभया प्राप्यते । केन्द्र-शासनस्य-राष्ट्रिय-संस्कृत-संस्थानद्वारा संस्कृत-वर्गस्य कृते अंशकालिकस्य शिक्षकस्य वेतनार्थम्, अपि च संस्कृत-भवितव्य-साप्ताहिकस्य गुण-विषयविवृद्धये इति अनुदानद्वयं प्राप्यते । महाराष्ट्र-शासनस्य सूचना-जनसम्पर्क-महासञ्चालनालयत: संस्कृत-भवितव्ये प्रकाशनार्थं विज्ञापनानि अपि प्राप्यन्ते । अचिरादेव पाथेयनाम्नि प्रकल्पे संस्कृतसाहित्या-धिष्ठितस्य विज्ञानप्रयोग-प्रचारार्थं, प्रज्ञाभारती-पुरस्कारार्थं, कळमकर-स्मृति-व्याख्यानार्थं यथेष्टं दानं सभया प्राप्तम् ।

एवं निरन्तरं संस्कृतभाषायाः सेवाकार्यं कुर्वती, सर्वेषां सहकार्येण च अनुदिनं वर्धमाना इयं सभा अद्य देवोत्थानएकादश्यां तिथौ तदनुसार २५ नोव्हेम्बर २०२० तमे दिने एकसप्ततितमं वर्षं प्रविशति ।


Copyright © Sanskrit bhasha pracharni sabha All rights reserved.