Sanskrit bhasha pracharni sabha

About

विदर्भ-विषय:

सारस्वती जन्मभूः' इति सारस्वतानां संस्कृतविदुषां कर्मभूम्याम् अस्यां प्राचीनशास्त्रपरम्परा वरीवर्ति इति महत् सौभाग्यम् अस्मदीयानां भारतहृदयस्थितानां नागपुर-निवासिनाम्। श्रुतचरं सर्वेषां यद् अस्मिन्नेव विदर्भजनपदे तत्रापि नागपुरे मीमांसा-व्याकरण-नव्यन्याय-विषयेषु शतवर्षात्मिका शास्त्रपरम्परा विलसति स्म। तथा हि वैय्याकरणकेसरी सदाशिवभट्ट-घुले-महामहोपाध्याय-भट्टजी-घाटे-भाऊजी-घुले-पंढरीनाथ-घाटे प्रभृतयः वैय्याकरणाः, सदाशिवशास्त्री केळवदकर, गजाननशास्त्री वखरे, प्रा. गो. के. गर्दे, प्रभाकर-शास्त्री-रोडे-प्रभृतयः नैय्यायिकाः; विद्याभूषण कृष्णशास्त्री घुलेसदृशाः शास्त्रप्रवीणा: नगरमिदं दक्षिणकाशीपदं प्रापित-वन्तः। एतैः यावज्जीवं स्वाध्यायेन परिरक्षिताया: परम्परायाः नूनं पुनरुज्जीवनं कर्तुं संस्थापिता अभवत् इयं संस्कृत-भाषा-प्रचारिसभा। स्वातन्त्र्योत्तरे भारते मार्गभवनयानादि-भौतिक-विषयेषु प्रशासका: यदा प्राधान्येन चिन्तयन्ति स्म, तदा किल उपेक्षिताया संस्कृतभाषायाः प्रसारप्रचारमाध्यमेन उन्नयनं चिन्तयन्तः वैदर्भीयाः पूर्वसूरयः सभामिमां संस्थापितवन्तः।

एवं संस्कृत-भाषा-प्रचारिणी सभा १९५० ख्रिस्तीयवर्षस्य नोवेंबर-मासस्य विंशतिदिनाङ्के प्रबोधन-एकादश्यां जन्म लेभे। तत: विगतेषु कतिपय वर्षेषु आदौ अध्यापनेन सह संस्कृत-परीक्षा-प्रवर्तनं, भवितव्यम्-नामकस्य संस्कृतसाप्ताहिकस्य प्रकाशनं, पुस्तिका-प्रकाशनं, व्याख्यानायोजनम्, अनन्तरं च गच्छता कालेन रूपकोदय इति संस्कृतनाट्य-मण्डलं, संस्कृत-गवेषण-मण्डलम्, सङ्गणकीय-संस्कृत-कार्यक्रमः इति नैकान् कार्यकलापान् प्रवर्त्य समग्रं मध्यभारत: सभया संस्कृतप्रचारेण प्रभावितः। महत्कार्यमिदम् अद्ययावत् प्रचलति।

साम्प्रतिकं कार्यम्

ऐषम: मार्चमासादारभ्य अद्ययावत् प्रवर्तते कोविडप्रकोपः सर्वत्र । सामान्यं सभाकार्यं यद्यपि प्रारम्भे दुष्प्रभावितं तथापि सपदि एव नवविज्ञानतन्त्रमवलम्ब्य दृश्य-श्राव्य-माध्यमेन केचन उपक्रमा: उत्तमरीत्या सजाताः। तथा हि मे मासे डॉ. कळमकर-स्मृतिव्याख्यानमालायां पुरातत्त्ववेत्तॄणां डॉ. चन्द्रशेखरगुप्त-वर्याणाम् अनुभवसम्पन्नं सचित्रं व्याख्यानम्, जूनमासे त्रिविधनाट्याभिनये बालकलाकाराणां संस्कृतोच्चारणं परिष्कर्तुं सप्ताहात्मिका कार्यशाला, सभाध्यक्षायाः डॉ. लीनारस्तोगीवर्याया: गीताप्रवचनानि, सभासचिवस्य 'संस्कृत-अल्गोरिदम्स'विषये विज्ञानपूर्णानि व्याख्यानानि, 'मधुभारती' इति डॉ. मधुसूदनपेन्नावर्यस्य साहित्यकृतीनां रसास्वादः, विचक्षणस्यास्य च सभाजनम् इत्यादयः उपक्रमाः सुसम्पन्नाः। तत्पूर्वं वर्षारम्भे जानेवारीमासे कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयस्य तत्त्वावधाने सुयोजितायाम् अ. भा. प्राच्य-विद्यापरिषदि विविधैः स्वोपक्रमैः सहभागिनी अभवत् सभेयम्। एतादृशैः नैमित्तिकोपक्रमैः सहैव प्रवाहितस्य सभाकार्य-जातस्य विभवम् ऐतह्यं च अत्र सङ्क्षेपेण प्रस्तूयते।

०१. संस्कृत-परीक्षा

संस्कृत-भाषायाः प्रचारः यदि शिशुषु बालेषु च भवति तर्हि गच्छता कालेन संस्कृतज्ञस्य भावि-समाजस्य निर्माणं भवितुं शक्यं स्यादिति मनसि निधाय १९५३ वर्षादारभ्य सभायाः संस्थापक-सचिवेन श्रीमता स. ना. कुलकर्णी-महोदयेन संस्कृत-मौखिक-परीक्षाणाम् आयोजनं कृतम् । कालान्तरेण लिखित-परीक्षाणां प्रचालनम् अपि विहितम् । इदानीं परीक्षाविस्तारः यादृशः जातः येन प्राथमिक-स्तरत: द्वादशकक्ष्यापर्यन्तं समकक्षाः परीक्षाः सभया प्रचाल्यन्ते । साकल्येन महाराष्ट्रे आमगावत: बार्शीपर्यन्तं अष्टाधिकषट्-सहस्त्र-परीक्षार्थिनः तत्र प्रविशन्ति । १३० शिक्षका: शिक्षिकाश्च, अष्टसप्ततिः केन्द्राणि अस्मिन् परीक्षाकार्ये व्यापृताः सन्ति । संस्कृत-विज्ञानाधारितं 'सङ्गणकीय-संस्कृतम्' इति काचित् अभिनवा परीक्षा अपि सभया अनुष्ठीयते । पुनश्च अभिनवाः संस्कृत-प्रश्नकुम्भाः छात्राणां सांस्कृतिकं ज्ञानं विस्तारयन्ति । प्रतिवर्षं शिक्षक-परीक्षकाणां सम्मेलनानि समायोज्यन्ते येषु यथेष्टं मार्गदर्शनं, चर्चाश्च प्रवर्तन्ते। अनेन मन्थनेन या: वस्तुनिष्ठाः प्रश्नपत्रिका: सभया पूर्वं संरचिता: तादृशा एव महाराष्ट्रसर्वकारेण शालान्तपरीक्षासु अधुना उपयुक्ता, इति गौरवविषयः । काले काले 'संस्कृत-साहित्य-परिचयः', साहित्यालङ्कारपरिचयः, समासप्रकरणम्, श्रीमद्-भगवद्गीताध्ययनम्, स्तोत्रपाठाः, गङ्गालहरीपाठः, संस्कृत-सम्भाषणम्, संस्कारवर्गाः, विज्ञानपरिचयः इत्येदृशाः छात्रोपयुक्ता: उपक्रमाः सभया आवर्ष प्रचाल्यन्ते।

०२. संस्कृत-भवितव्यम् प्रकाशनानि च

लसति सार्धशतोत्तरवर्षदेशीया मुद्रित-संस्कृत-वृत्तपत्राणां सुदीर्घा परम्परा जगतीतले। अस्या उज्ज्वलसोपानमालिकायाः उपार्धपदक्रमपुष्पाणि भूषयति सप्ततिवर्षपूर्वं वर्षप्रतिपदायां तिथौ, ७ एप्रील-१९५१ तमे दिनाङ्के नागपुरे प्रारब्धम् इदं संस्कृत-साप्ताहिकं 'भवितव्यम्' । एवं सप्ततिवत्सरेषु निरन्तरं प्रकाश्यमानं विश्वस्य अनन्यतमं संस्कृत-साप्ताहिकमिदम् इति खलु गौरवविषयः भवितुमर्हति सर्वेषां संस्कृतानुरागिणां कृते । संस्कृतभाषा-प्रचारि-सभायाः मुखपत्रमिदं संस्कृत-वृत्तपत्रजगति स्वकीयवैशिष्ट्यैः नितरां प्रकाशते। महाराष्ट्र अप्पाशास्त्रिराशीवडेकराणां ‘सूनृतवादिनी' नाम्नः संस्कृत-साप्ताहिकादनन्तरम् एतत् द्वितीयं संस्कृत-साप्ताहिकं, मध्यभारतस्य प्रथम, स्वातन्त्र्योत्तरकाले प्रकाश्यमानं च प्रथमं संस्कृत-साप्ताहिकं, संस्कृत-विदुषां सम्पादकपरम्परया विभूषितम्, न कस्यापि एकस्य सम्पादकस्य स्वामित्वेन प्रकाश्यमानं साप्ताहिकं, संस्थायाः प्रतिनिधीभूतं अत: चिरञ्जीवि-वृत्तपत्रं, प्राचीनार्वाचीन-विषयाणां मधुर-सङ्गमेन अन्वितं, गणजालमाध्यमेनापि प्रेषितम् (email), विदेशेषु अपि च महता औत्सुक्येन प्रतीक्षितं, प्रसङ्गे विशेषाङ्कयुतं, अन्यभाषिकवृत्तपत्रैः सह स्पृहयालु, जातिपक्षभेदरहितं संस्कृतस्य भवितव्यतां द्योतयत् इदं 'संस्कृत-भवितव्यम्' जगति सुप्रतिष्ठितम्। अखिलभारतीयः लेखकवर्गः, विनावेतनं संस्कृतसेवाकार्यं कुर्वत् सम्पादकमण्डलम् इत्यपि वैशिष्ट्ये साप्ताहिकस्यास्य । प्रथमे पृष्ठे वार्ताः, द्वितीये सम्पादकीय, तृतीये लेखः, कविता, ललितसाहित्यम्, अन्तिमे च बालकथा, प्रहेलिका इत्येवं प्रायः वर्तते चतुःपृष्ठीयस्य भवितव्यस्य योजना। सर्वकारीयमादेशं विहाय केवलं विशेषाङ्केषु विज्ञापनानि प्रकाश्यन्ते । प्रज्ञाभारती डॉ. श्री. भा. वर्णेकराणाम् आद्य-सम्पादकत्वे प्रवर्तितं वृत्तपत्रमिदं यथाकालं स. प. गानु, प्रा. ना. भू. जवादीवार, स. ना. कुलकर्णी, प्रा. दि. वि. व-हाडपाण्डे, डॉ. के. रा. जोशी, डॉ. गु. वा. पिम्पळापुरे, श्रीधर-घुशे, डॉ. स. मो. अयाचित, डॉ. पङ्कज चान्दे, श्री. न. र. पत्तरकिने, डॉ. नी. र. व-हाडपाण्डे, डॉ. चन्द्रगुप्त-वर्णेकरः, डॉ.लीना रस्तोगी, डॉ. सौ. शारदा गाडगे, डॉ. सौ. वीणा गानु, सौ. श्रद्धा तेलङ्ग, डॉ. सौ. रेणुका करन्दीकर सदृशैः सम्पादकवर्यैः सुष्ठु सञ्चालितं वर्तते । नूनं भूतस्य वैभवं, वर्तमानस्य भानं, भविष्यत्कालस्य चिन्तनं, देवभाषाया आभिजात्यं, कालानुरूपं सङ्गणकीय-संसाधन-प्रणाल्या अक्षर-विन्यासः, दृश्य-सञ्चार माध्यमेभ्यः बहुवर्णप्रस्तुतिः, इत्यादिभिः नैकविधाभिः परिशोभते साम्प्रतिकं भवितव्यम्' साप्ताहिकस्यास्य स्वरूपम् । संस्कृतसाप्ताहिकस्य भवितव्यस्य स्तुति: काले काले नैकैः विद्वद्भिः विहिता, तेषु सविशेषम् उल्लेखमर्हन्ति कुलगुरुः डॉ. श्रीनिवासवरखेडी, शास्त्ररत्नाकरः प्रा. मधुसूदनपेन्ना, वार्तावलीत: मङ्गला-कवठेकरः, अमरिकादेशात् विसुवजः, राजधानीदिल्लीत: डॉ. रमाकान्तशुक्लः प्रभृतयः।

संस्कृतस्य पठनसम्भाषणयोः प्रचारस्य माध्यमत्वेन सुलभ-संस्कृत-पुस्तिकानां मुद्रण-प्रकाशनयोः प्रारम्भः १९५१ तमे वर्षे स. ना. कुलकर्णी-महोदयेन कृतः । न केवलं संस्कृत-भाषायाः ज्ञानसम्पादनम् अपि तु सम्भाषणेन सहैव योग्य-संस्काराणां शिशुषु बालेषु च निवेशः इति संस्कृत-पुस्तिका-प्रकाशने मूलो हेतुः । बालामृत-शतश्लोकी, सुलभ-शब्दरूपावलिः, धातुरूपावलिः, व्यवहार-प्रश्नोत्तरी, बाल-पाठाः, रामायणकथाः, महाभारतकथाः, हितोपदेश-कथाः इति पुस्तिकाना सप्ततिवर्षपूर्वमेव प्रणयनं कृत्वा नूतनं सुसंस्कारितं शिशुसमाज निर्मातम् एषा सभा प्रयतते। एता: पुस्तिकाः इदानीं मौखिक-संस्कृत-परीक्षाणां कृते पाठ्य-पुस्तकरूपेण विनियोजिताः। तदतिरिक्तं अन्याः साहित्य-रचना: अपि सभया प्रकाशिताः । तेषु वात्सल्यरसायनं, कथा-वल्लरी, विवेकानन्द-विजयम् विशेषम् उल्लेखम् अर्हन्ति । सम्प्रति सङ्गणकीय-माध्यमैः अपि विविधानि प्रकाशनानि विलसन्ति।

०३. व्याख्यानानि सांस्कृतिक-उपक्रमाश्च

संस्कृत-साहित्ये विद्यमानस्य दर्शनस्य ज्ञानविज्ञानयोः च लोकेषु प्रसारः कार्य: येन लोकेषु प्रसृतां संस्कृतविषयिकी विपरीतधारणा दूरीभवेत्, संस्कृत-साहित्यविषये तेषां रुचिः वर्धेत इत्यर्थं विविध-संस्कृतविदुषां व्याख्यानानाम् आयोजनं प्रतिवर्ष क्रियते सभया। विगत-पञ्चविंशत्यधिकवर्षेभ्यः 'कै. मार्तण्डराव-वाईकर-स्मृतिव्याख्यानमालायाः' आयोजनमपि भवति। इयं व्याख्यानमाला इदानीं सुप्रतिष्ठिता। तथैव गङ्गादशहरा-पर्वणि डॉ. रा. ज. कळमकर स्मृतिव्याख्यानम् अनुवर्षं प्रवर्तते। अन्यानि अपि प्रसङ्गोचितानि व्याख्यानानि प्रचलन्ति ।

संस्कृतभाषया कीर्तनं, गीतप्रस्तुतिः, मञ्च-सञ्चालनम्, नाट्यसंवादः इति अन्येऽपि सांस्कृतिक कार्यक्रमाः सभया काले काले आयोजिताः।

०४. संस्कृत-संशोधन-मण्डलम्

संस्कृत-साहित्यस्य चिकित्सकम् अन्वेषणम् अधिष्ठातुं सभया संस्कृत-संशोधन-मण्डलस्य स्थापना कृता । मण्डलस्योद्घाटनं १० जुलाई १९९३ तिथौ प्राच्यविद्या ठाणे, इति संस्थायाः अध्यक्षः डॉ. विजय-बेडेकर-महोदयः अकरोत् । प्रत्येकं मासे सदस्यानां सभा भवति । तत्र शोध-निबन्धानां प्रस्तुतीकरणं भवति । संशोधन-मण्डलेन डॉ. नी. र. व-हाडपाण्डे-महोदयानां वेदविषयकम् अन्वेषणं Sanskrit Research Monograph Series मध्ये प्रकाशितम् । तत: New light on the date of Rigved, Soma in the Rigveda इति ग्रन्थद्वयं सभया प्रकाशितम् ।

०५ विज्ञानोपक्रमाः

एषः सभाया: विज्ञानाधारित: वार्षिक: पाठ्यक्रमः । यथा संस्कृते तथैव सङ्गणकविज्ञाने समानं पाण्डित्यं भजन् सभायाः कार्यवाहः डॉ. चन्द्रगुप्त-वर्णेकरः पाठ्यक्रममिमं भारते प्रथम-तया उद्घोषितवान् । पाठ्यक्रममनुलक्ष्य सभया परीक्षायाः आयोजनमपि प्रतिवर्षं क्रियते। सम्प्रति ‘संस्कृत-अल्गोरिदम्स' इति विषये डॉ. चन्द्रगुप्त-वर्णेकरस्य व्याख्यानानि भारते सर्वत्र डिण्डिमायन्ते। विषयेऽस्मिन् विशेषं जागरणं सम्प्रति जगति वरीवर्ति। सभया नवविज्ञानक्षेत्रेऽस्मिन् एतावत् कालपर्यन्तं यत् तपः तप्तम्, या वा कार्यशृङ्खला संरचिता तत्सर्वेषां सर्वासां फलरूपेण एतस्मिन् विषये विशेष जागरणं जगति सर्वत्र दरीदृश्यते। विज्ञानविषयकस्य संस्कृत-साहित्यस्य सप्रयोगं संशोधनं श्रीदत्तसुदर्शनविज्ञानमञ्चे डॉ. प्रा. डिडोळकरप्रशान्त होले-वर्ययो: मार्गदर्शने 'पाथेयं'-नाम्ना प्रवर्तते, यस्य प्रकटनं काले काले शोधपत्रैः सभासम्मेलनेषु भवति।

०६. शास्त्रकलापाः

०७. प्रज्ञाभारती-वाचनालयः

एषः सभाया: समृद्धः संस्कृत-ग्रन्थालयः । संस्कृत-भाषायाः विविधज्ञानविज्ञान-शाखाविषयका: नैके पुरातनाः ग्रन्थाः अत्र विद्यन्ते । विगतपञ्चदशवर्षेभ्यः भारतशासनतः अपि दानरूपेण ग्रन्थाः सभया लभ्यन्ते । संस्कृतभवितव्यस्य विनिमयेन त्रिंशत्यधिक-संस्कृतपत्रिका: अपि सभया प्राप्यन्ते । अत: अध्येतृणाम्, अन्वेषकाणां च कृते उपयुक्तः ग्रन्थसम्भारः सभायाः सविधे वाचनालये उपलब्धः। परन्तु धनाभावाद् तस्य प्रकाशनव्यवस्था ग्रन्थवितरणव्यवस्थां च साधयितुं सभया अद्यापि नाधिकं यशः प्राप्तम् ।

०८. रुपकोदयाः नाट्यप्रस्तुतिः

संस्कृत-साहित्याधारित-नृत्य-नाट्य-सङ्गीतप्रकाराणाम् आयोजनं सभया क्रियते। तदर्थं रूपकोदयः इति विभागः सभया कल्पितः। तस्य उद्घाटनं विख्यातेन संस्कृत-नाटककारेण वि. भि. वेलणकर-महोदयेन १२.२.१९८८ दिनाङ्के कृतम्। राज्य-संस्कृत-नाट्य-स्पर्धायां बहुवारं प्रथम-पारितोषिकं सभया विजितम्।

रूपकोदयः संस्कृतभाषा-प्रचारि-सभायाः प्रमुखः हेतुः तस्याः नाम्ना एव स्पष्टीभवति। संस्कृतप्रचारार्थं यत् किमपि कर्तुं शक्यं तत् सर्वं सभायाः कार्यक्षेत्रे समाविष्टम्। सभायाः सदस्यसंख्या यथा यथा वर्धिता तथा तथा संस्कृत-प्रचारकार्यमपि गतिं प्राप्नोत्। सदस्येषु केचन गायकाः, केचन अभिनेतारः, केचन कवयः, केचन चित्रकाराः, अपि भवन्ति। तेषां मनसि जागृता काचिद् अभिनवा कल्पना। किं नु वयं मनोरञ्जन-माध्यमेन संस्कृतप्रचारकार्यं कुर्मः इति। अतः कैश्चित् सदस्यैः संहिता-लेखनं कृतम्, अपरैः कलाकारैः अभिनीतानि संस्कृत-नाटकानि। कलाकारैः भूरि परिश्राम्य नाट्यप्रयोगस्य प्रस्तुती-करणमपि कृतम्। तावदेव कार्यकारि-मण्डलेन महाराष्ट्रराज्य-संस्कृतनाट्यस्पर्धायां सहभागार्थम् अनुमतिरपि प्रदत्ता। इत्थं सभायाः नाट्यमयं संस्कृतप्रचारकार्यं सजवं प्राचलत्। डॉ. विजया जोशी, डॉ. पङ्कज चान्दे, स्व. श्रीकृष्ण जोशी आदयः नाट्य-विभागस्य आद्या: आधारस्तम्भाः आसन्। तदा सभायाः अध्यक्षपदे विराजमान: आसीत् नाट्यप्रेमी कवि: डॉ. नी. र. व-हाडपाण्डे। महोदयैः प्रदत्तेन प्रोत्साहनेन उत्तमोत्तमाः संस्कृतनाट्यसंहिता: उपलब्धाः। नाट्यप्रस्तुतीकरणे कुशलाः अभिनेतारः आवश्यकाः। अतः कलाकाराणां उपलब्धि: सुलभा भवेत् इत्यर्थं कलाकारसदस्यानां अपर: विशेषविभागः निर्मितः। तस्य विभागस्य नामकरणं जातं 'रूपकोदय' इति। रूपकोदयस्य प्रथमं नाटकं आसीत् ‘अभिज्ञानमन्तर्यामिनः' १९८८ तमे वर्षे राज्यनाट्यस्पर्धायाम् इदं प्रथमस्थानं प्राप्नोत्। तदा पुण्यपत्तने मुम्बईमध्ये वा स्पर्धाः भवन्ति स्म। उपर्युक्ते नाटके स्त्री पुरुष अभिनयस्य कृते प्रथमपुरस्कारं सभा प्राप्तवती। स्व. डॉ. सुनील पारसे नायकस्य अभिनयं कृतवान्। अहं (स्वयं लेखिका) च नायिकायाः। श्रीकान्तः बापटमहोदयः उत्कृष्टअभिनयस्य कृते प्रमाणपत्रं प्राप्तवान्। अनन्तरं वर्षत्रयमपि स्पर्धामध्ये सभायाः नाटकेन प्रारितोषिकं प्राप्तम्। त्रयाणामपि नाटकानां संहितालेखनं कृतमासीत् स्व. श्रीधर घुशे महोदयेन। दिग्दर्शनमासीत् सुरेश घड्याळपाटीलमहोदयस्य। संस्थायाः तत्कालीनः सचिव: न. र. पत्तरकिनेमहोदयोऽपि तत्र लघुभूमिकाम् अभिनीतवान्। अस्मिन् वर्षे एव ‘रूपकोदयस्य' पञ्जीकरणम् अभवत्। तदनन्तरं प्रतिवर्षं रूपकोदयेन स्पर्धासु पारितोषिकं प्राप्तम्। 'मोहवनम्' इति प्राप्तपुरस्कारे नाटके सभायाः कोषाध्यक्षः सेनाड-प्रकाशः लघुभूमिकाम् अभिनीतवान् । 'बण्डुः अभिनयं करोति' इति प्राप्त-प्रथमपुरस्कारे नाटके सभा-सदस्या गोखलेकल्याणी उत्कृष्ट अभिनेत्री इति, ‘नरकः एव वरम्' इति प्राप्तप्रथमपुरस्कारे नाटके सभा-सदस्यः ठेङ्गडी-सतीशः उत्कृष्ट-अभिनेता इति पुरस्कार प्राप्तवान्। अत्र विशेषतया उल्लेखनीयमस्ति यद् इसवीये २०१३, १४ तमे वर्षेऽपि गृहहीनः', 'नरकः एव वरम्' इति नाटकद्वयेन संहिता-लेखनस्य पुरस्कारः प्राप्तः। तत्पूर्वं राज्यस्पर्धायां संस्कृत-लेखनस्य पुरस्कार: एव नैव दीयते स्म। पुरस्कारस्य प्रारम्भः एव रूपकोदयेन कृतः इति मन्ये। उपर्युक्तस्य नाट्यद्वयस्य संहितालेखनम् अपि, अद्यतनीयायाः सभाध्यक्षया डॉ. लीना रस्तोगीमहोदयया कृतमासीत्। नाटकेषु लिखितानि गीतानि प्रेक्षकैः तालिकावादनेन अभिनन्दितानि। एतासां प्रयोगक्षमाणां संहितानां सङ्कलनं 'संस्कृतभारती' संस्थया रसरङ्ग' इति पुस्तके कृतमस्ति। संहितायाः विषयाः अपि विभिन्नाः सन्ति। कन्यावसतिगृहम्, विनोदिप्रहसनम्, विवाह-विच्छेदः, कन्या-दत्तक-विधानम्, वैज्ञानिकस्य कौटुम्बिक-समस्याः इत्यादयः विषयाः लेखिकया सुष्ठु चित्रिताः सन्ति। 'निर्भया-हत्या' इति सत्यघटनाधारिता 'विकसतु एषा कलिका' नाम्नी नाटिका अपि राज्यस्पर्धायां प्रथम पुरस्कार प्राप्तवती। राष्ट्रिय-संस्कृत-संस्थानस्य अखिल-भारतीय-नाट्यमहोत्सवे त्रिपुरा-अगरतला इत्यत्र अस्याः नाटिकायाः प्रस्तुतिः रसिकैः प्रशंसिता। २०१५ तमे ख्रिस्ताब्दे संस्थायाः उपाध्यक्षा दुर्गा पारखीमहोदया ‘काबुलीवाला' इति नाट्यसंहितायाः कृते लेखनपुरस्कार प्राप्तवती। नाटकस्य प्रस्तुतेः द्वितीय पुरस्कार, अभिनयस्य च प्रथमपुरस्कारं विनयः मोडकः प्राप्तवान्।

अस्मिन् वर्षेऽपि द्वितीयपुरस्कारेण गौरविता अस्माकं सभा। कार्यकारिणी-सदस्य: विनयः मोडकः अभिनयस्य प्रथमपुरस्कार प्राप्तवान्। कोषाध्यक्ष: रवीन्द्रः सङ्गवई अभिनय-प्रमाणपत्रं प्राप्नोत्। दिग्दर्शनमकरोत् कार्यकारिणी सदस्या कल्याणी गोखले। नाट्यसंहिता विरचिता आसीत् सभायाः परीक्षाविभागप्रमुखा डॉ. हंसश्री मराठेमहोदयया। अद्यतन कविकुलगुरु-कालिदासविश्वविद्यालयः, नागपुरम्, मुम्बई, पुणे, त्रिपुरा-अगरताला, चेन्नई, सोमनाथ विश्वविद्यालय:,गान्धि- नगर गुजरात, अ.भा. प्राच्यविद्यापरिषद्, सागर विश्वविद्यालयः आदिषु स्थानेषु रूपकोदयस्य नाट्यप्रयोगाः प्रशंसिताः। एवं 'रूपकोदय' संस्थायाः आलेख: प्रतिवर्षं वर्धिष्णुः एवास्ति। ये अभिनेतारः पूर्वं संस्कृतं सम्भाषणं कण्ठस्थी-कृत्य अभिनयं कुर्वन्ति स्म ते अधुना संस्कृतेन सम्यक् वक्तुं शक्नुवन्ति। आबालतरुणवृद्धाः अस्य सदस्याः। अनेन प्रकारेण रूपकोदयस्य निर्मितिहेतुः संस्कृतस्य प्रचारोऽपि सफलतां गतः। भविष्यत्का-लेऽपि रूपकोदयम्' उत्तमोत्तमानां नाटकानां निर्मितिं करिष्यति इत्यत्र नास्ति संशयलेशः।


Copyright © Sanskrit bhasha pracharni sabha All rights reserved.