विदर्भ-विषय:
‘सारस्वती जन्मभूः’ इति सारस्वतानां संस्कृतविदुषां कर्मभूम्याम् अस्यां प्राचीनशास्त्रपरम्परा वरीवर्ति इति महत् सौभाग्यम् अस्मदीयानां भारतहृदयस्थितानां नागपुर-निवासिनाम्। श्रुतचरं सर्वेषां यद् अस्मिन्नेव विदर्भजनपदे तत्रापि नागपुरे मीमांसा-व्याकरण-नव्यन्याय-विषयेषु शतवर्षात्मिका शास्त्रपरम्परा विलसति स्म। तथा हि वैय्याकरणकेसरी सदाशिवभट्ट-घुले-महामहोपाध्याय-भट्टजी-घाटे-भाऊजी-घुले-पंढरीनाथ-घाटे प्रभृतयः वैय्याकरणाः, सदाशिवशास्त्री केळवदकर, गजाननशास्त्री वखरे, प्रा. गो. के. गर्दे, प्रभाकर-शास्त्री-रोडे-प्रभृतयः नैय्यायिकाः; विद्याभूषण कृष्णशास्त्री घुलेसदृशाः शास्त्रप्रवीणाः नगरमिदं दक्षिणकाशीपदं प्रापितवन्तः। एतैः यावज्जीवं स्वाध्यायेन परिरक्षितायाः परम्परायाः नूनं पुनरुज्जीवनं कर्तुं संस्थापिता अभवत् इयं संस्कृत-भाषा-प्रचारिणी सभा। स्वातन्त्र्योत्तरे भारते मार्गभवनयानादि-भौतिक-विषयेषु प्रशासकाः यदा प्राधान्येन चिन्तयन्ति स्म, तदा किल उपेक्षितायाः संस्कृतभाषायाः प्रसारप्रचारमाध्यमेन उन्नयनं चिन्तयन्तः वैदर्भीयाः पूर्वसूरयः सभामिमां संस्थापितवन्तः।
एवं संस्कृत-भाषा-प्रचारिणी सभा १९५० ख्रिस्तीयवर्षस्य नोवेंबर-मासस्य विंशतिदिनाङ्के प्रबोधन-एकादश्यां जन्म लेभे। ततः विगतेषु कतिपयवर्षेषु आदौ अध्यापनेन सह संस्कृत-परीक्षा-प्रवर्तनं, भवितव्यम्-नामकस्य संस्कृतसाप्ताहिकस्य प्रकाशनं, पुस्तिका-प्रकाशनं, व्याख्यानायोजनम्, अनन्तरं च गच्छता कालेन रूपकोदय इति संस्कृतनाट्य-मण्डलं, संस्कृत-संशोधन-मण्डलम्, सङ्गणकीय-संस्कृत-कार्यक्रमः इति नैकान् कार्यकलापान् प्रवर्त्य समग्रं मध्यभारतं सभया संस्कृतप्रचारेण प्रभावितम्। महत्कार्यमिदम् अद्ययावत् प्रचलति।
साम्प्रतिकं कार्यम्
ऐषमः मार्चमासादारभ्य अद्ययावत् प्रवर्तते कोविडप्रकोपः सर्वत्र। सामान्यं सभाकार्यं यद्यपि प्रारम्भे दुष्प्रभावितं तथापि सपदि एव नवविज्ञानतन्त्रमवलम्ब्य दृश्य-श्राव्य-माध्यमेन केचन उपक्रमाः उत्तमरीत्या सजाताः। तथा हि मे मासे डॉ. कळमकर-स्मृतिव्याख्यानमालायां पुरातत्त्ववेत्तॄणां डॉ. चन्द्रशेखरगुप्त-वर्याणाम् अनुभवसम्पन्नं सचित्रं व्याख्यानम्, जूनमासे त्रिविधनाट्याभिनये बालकलाकाराणां संस्कृतोच्चारणं परिष्कर्तुं सप्ताहात्मिका कार्यशाला, सभाध्यक्षायाः डॉ. लीनारस्तोगीवर्यायाः गीताप्रवचनानि, सभासचिवस्य ‘संस्कृत-अल्गोरिदम्स’ विषयकानि विज्ञानपूर्णानि व्याख्यानानि, ‘मधुभारती’ इति डॉ. मधुसूदनपेन्नावर्यस्य साहित्यकृतीनां रसास्वादः इत्यादयः उपक्रमाः सुसम्पन्नाः। तत्पूर्वं वर्षारम्भे जानेवारीमासे कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयस्य तत्त्वावधाने सुयोजितायाम् अ. भा. प्राच्य-विद्यापरिषदि विविधैः स्वोपक्रमैः सहभागिनी अभवत् सभेयम्। एतादृशैः नैमित्तिकोपक्रमैः सहैव प्रवाहितस्य सभाकार्यजातस्य विभवम् ऐतह्यं च अत्र सङ्क्षेपेण प्रस्तूयते।
Background in Vidarbha
Sanskrit Bhasha Pracharini Sabha emerged from the long and distinguished Sanskrit intellectual tradition of Vidarbha, especially Nagpur. The region had nurtured an impressive lineage of scholars in Mimamsa, Vyakarana, and Navya-Nyaya for generations. Because of that living heritage, the founders felt a deep responsibility not merely to admire the past, but to revive and extend it in modern times through organized public work for Sanskrit.
With that vision, the Sabha was formally established on 20 November 1950, on Prabodhini Ekadashi. In the early years it focused on teaching activity, Sanskrit examinations, publication of the Sanskrit weekly Bhavitavyam, booklet publishing, and lecture programs. Over time, its work expanded into theatre through Rupakodaya, research activity through the Sanskrit Research Circle, and science-oriented Sanskrit initiatives. Through these efforts, the Sabha has influenced Sanskrit promotion across a wide region of central India, and that work continues even now.
Current Work
Even in difficult periods, including the disruption caused during the Covid era, the Sabha continued its work by adapting quickly to audio-visual and digital modes. Memorial lecture series, workshops to improve Sanskrit pronunciation in dramatic performance, Gita discourses, talks on Sanskrit algorithms, literary appreciation programs, and participation in major Sanskrit academic forums have all remained part of its active public role.
In essence, the Sabha combines heritage, publication, pedagogy, examinations, lectures, cultural programming, research, and innovation. The page brings together that living institutional tradition in both Sanskrit and English for present-day readers.