Sanskrit bhasha pracharni sabha

संस्कृत-भवितव्यम् प्रकाशनानि च

लसति सार्धशतोत्तरवर्षदेशीया मुद्रित-संस्कृत-वृत्तपत्राणां सुदीर्घा परम्परा जगतीतले। अस्या उज्ज्वलसोपानमालिकायाः उपार्धपदक्रमपुष्पाणि भूषयति सप्ततिवर्षपूर्वं वर्षप्रतिपदायां तिथौ, ७ एप्रील-१९५१ तमे दिनाङ्के नागपुरे प्रारब्धम् इदं संस्कृत-साप्ताहिकं 'भवितव्यम्' । एवं सप्ततिवत्सरेषु निरन्तरं प्रकाश्यमानं विश्वस्य अनन्यतमं संस्कृत-साप्ताहिकमिदम् इति खलु गौरवविषयः भवितुमर्हति सर्वेषां संस्कृतानुरागिणां कृते । संस्कृतभाषा-प्रचारि-सभायाः मुखपत्रमिदं संस्कृत-वृत्तपत्रजगति स्वकीयवैशिष्ट्यैः नितरां प्रकाशते। महाराष्ट्र अप्पाशास्त्रिराशीवडेकराणां ‘सूनृतवादिनी' नाम्नः संस्कृत-साप्ताहिकादनन्तरम् एतत् द्वितीयं संस्कृत-साप्ताहिकं, मध्यभारतस्य प्रथम, स्वातन्त्र्योत्तरकाले प्रकाश्यमानं च प्रथमं संस्कृत-साप्ताहिकं, संस्कृत-विदुषां सम्पादकपरम्परया विभूषितम्, न कस्यापि एकस्य सम्पादकस्य स्वामित्वेन प्रकाश्यमानं साप्ताहिकं, संस्थायाः प्रतिनिधीभूतं अत: चिरञ्जीवि-वृत्तपत्रं, प्राचीनार्वाचीन-विषयाणां मधुर-सङ्गमेन अन्वितं, गणजालमाध्यमेनापि प्रेषितम् (email), विदेशेषु अपि च महता औत्सुक्येन प्रतीक्षितं, प्रसङ्गे विशेषाङ्कयुतं, अन्यभाषिकवृत्तपत्रैः सह स्पृहयालु, जातिपक्षभेदरहितं संस्कृतस्य भवितव्यतां द्योतयत् इदं 'संस्कृत-भवितव्यम्' जगति सुप्रतिष्ठितम्। अखिलभारतीयः लेखकवर्गः, विनावेतनं संस्कृतसेवाकार्यं कुर्वत् सम्पादकमण्डलम् इत्यपि वैशिष्ट्ये साप्ताहिकस्यास्य । प्रथमे पृष्ठे वार्ताः, द्वितीये सम्पादकीय, तृतीये लेखः, कविता, ललितसाहित्यम्, अन्तिमे च बालकथा, प्रहेलिका इत्येवं प्रायः वर्तते चतुःपृष्ठीयस्य भवितव्यस्य योजना। सर्वकारीयमादेशं विहाय केवलं विशेषाङ्केषु विज्ञापनानि प्रकाश्यन्ते । प्रज्ञाभारती डॉ. श्री. भा. वर्णेकराणाम् आद्य-सम्पादकत्वे प्रवर्तितं वृत्तपत्रमिदं यथाकालं स. प. गानु, प्रा. ना. भू. जवादीवार, स. ना. कुलकर्णी, प्रा. दि. वि. व-हाडपाण्डे, डॉ. के. रा. जोशी, डॉ. गु. वा. पिम्पळापुरे, श्रीधर-घुशे, डॉ. स. मो. अयाचित, डॉ. पङ्कज चान्दे, श्री. न. र. पत्तरकिने, डॉ. नी. र. व-हाडपाण्डे, डॉ. चन्द्रगुप्त-वर्णेकरः, डॉ.लीना रस्तोगी, डॉ. सौ. शारदा गाडगे, डॉ. सौ. वीणा गानु, सौ. श्रद्धा तेलङ्ग, डॉ. सौ. रेणुका करन्दीकर सदृशैः सम्पादकवर्यैः सुष्ठु सञ्चालितं वर्तते । नूनं भूतस्य वैभवं, वर्तमानस्य भानं, भविष्यत्कालस्य चिन्तनं, देवभाषाया आभिजात्यं, कालानुरूपं सङ्गणकीय-संसाधन-प्रणाल्या अक्षर-विन्यासः, दृश्य-सञ्चार माध्यमेभ्यः बहुवर्णप्रस्तुतिः, इत्यादिभिः नैकविधाभिः परिशोभते साम्प्रतिकं भवितव्यम्' साप्ताहिकस्यास्य स्वरूपम् । संस्कृतसाप्ताहिकस्य भवितव्यस्य स्तुति: काले काले नैकैः विद्वद्भिः विहिता, तेषु सविशेषम् उल्लेखमर्हन्ति कुलगुरुः डॉ. श्रीनिवासवरखेडी, शास्त्ररत्नाकरः प्रा. मधुसूदनपेन्ना, वार्तावलीत: मङ्गला-कवठेकरः, अमरिकादेशात् विसुवजः, राजधानीदिल्लीत: डॉ. रमाकान्तशुक्लः प्रभृतयः।

संस्कृतस्य पठनसम्भाषणयोः प्रचारस्य माध्यमत्वेन सुलभ-संस्कृत-पुस्तिकानां मुद्रण-प्रकाशनयोः प्रारम्भः १९५१ तमे वर्षे स. ना. कुलकर्णी-महोदयेन कृतः । न केवलं संस्कृत-भाषायाः ज्ञानसम्पादनम् अपि तु सम्भाषणेन सहैव योग्य-संस्काराणां शिशुषु बालेषु च निवेशः इति संस्कृत-पुस्तिका-प्रकाशने मूलो हेतुः । बालामृत-शतश्लोकी, सुलभ-शब्दरूपावलिः, धातुरूपावलिः, व्यवहार-प्रश्नोत्तरी, बाल-पाठाः, रामायणकथाः, महाभारतकथाः, हितोपदेश-कथाः इति पुस्तिकाना सप्ततिवर्षपूर्वमेव प्रणयनं कृत्वा नूतनं सुसंस्कारितं शिशुसमाज निर्मातम् एषा सभा प्रयतते। एता: पुस्तिकाः इदानीं मौखिक-संस्कृत-परीक्षाणां कृते पाठ्य-पुस्तकरूपेण विनियोजिताः। तदतिरिक्तं अन्याः साहित्य-रचना: अपि सभया प्रकाशिताः । तेषु वात्सल्यरसायनं, कथा-वल्लरी, विवेकानन्द-विजयम् विशेषम् उल्लेखम् अर्हन्ति । सम्प्रति सङ्गणकीय-माध्यमैः अपि विविधानि प्रकाशनानि विलसन्ति।


Copyright © Sanskrit bhasha pracharni sabha All rights reserved.