Sanskrit bhasha pracharni sabha

रुपकोदया:

रूपकोदयः संस्कृतभाषा-प्रचारि-सभायाः प्रमुखः हेतुः तस्याः नाम्ना एव स्पष्टीभवति। संस्कृतप्रचारार्थं यत् किमपि कर्तुं शक्यं तत् सर्वं सभायाः कार्यक्षेत्रे समाविष्टम्। सभायाः सदस्यसंख्या यथा यथा वर्धिता तथा तथा संस्कृत-प्रचारकार्यमपि गतिं प्राप्नोत्। सदस्येषु केचन गायकाः, केचन अभिनेतारः, केचन कवयः, केचन चित्रकाराः, अपि भवन्ति। तेषां मनसि जागृता काचिद् अभिनवा कल्पना। किं नु वयं मनोरञ्जन-माध्यमेन संस्कृतप्रचारकार्यं कुर्मः इति। अतः कैश्चित् सदस्यैः संहिता-लेखनं कृतम्, अपरैः कलाकारैः अभिनीतानि संस्कृत-नाटकानि। कलाकारैः भूरि परिश्राम्य नाट्यप्रयोगस्य प्रस्तुती-करणमपि कृतम्। तावदेव कार्यकारि-मण्डलेन महाराष्ट्रराज्य-संस्कृतनाट्यस्पर्धायां सहभागार्थम् अनुमतिरपि प्रदत्ता। इत्थं सभायाः नाट्यमयं संस्कृतप्रचारकार्यं सजवं प्राचलत्। डॉ. विजया जोशी, डॉ. पङ्कज चान्दे, स्व. श्रीकृष्ण जोशी आदयः नाट्य-विभागस्य आद्या: आधारस्तम्भाः आसन्। तदा सभायाः अध्यक्षपदे विराजमान: आसीत् नाट्यप्रेमी कवि: डॉ. नी. र. व-हाडपाण्डे। महोदयैः प्रदत्तेन प्रोत्साहनेन उत्तमोत्तमाः संस्कृतनाट्यसंहिता: उपलब्धाः। नाट्यप्रस्तुतीकरणे कुशलाः अभिनेतारः आवश्यकाः। अतः कलाकाराणां उपलब्धि: सुलभा भवेत् इत्यर्थं कलाकारसदस्यानां अपर: विशेषविभागः निर्मितः। तस्य विभागस्य नामकरणं जातं 'रूपकोदय' इति। रूपकोदयस्य प्रथमं नाटकं आसीत् ‘अभिज्ञानमन्तर्यामिनः' १९८८ तमे वर्षे राज्यनाट्यस्पर्धायाम् इदं प्रथमस्थानं प्राप्नोत्। तदा पुण्यपत्तने मुम्बईमध्ये वा स्पर्धाः भवन्ति स्म। उपर्युक्ते नाटके स्त्री पुरुष अभिनयस्य कृते प्रथमपुरस्कारं सभा प्राप्तवती। स्व. डॉ. सुनील पारसे नायकस्य अभिनयं कृतवान्। अहं (स्वयं लेखिका) च नायिकायाः। श्रीकान्तः बापटमहोदयः उत्कृष्टअभिनयस्य कृते प्रमाणपत्रं प्राप्तवान्। अनन्तरं वर्षत्रयमपि स्पर्धामध्ये सभायाः नाटकेन प्रारितोषिकं प्राप्तम्। त्रयाणामपि नाटकानां संहितालेखनं कृतमासीत् स्व. श्रीधर घुशे महोदयेन। दिग्दर्शनमासीत् सुरेश घड्याळपाटीलमहोदयस्य। संस्थायाः तत्कालीनः सचिव: न. र. पत्तरकिनेमहोदयोऽपि तत्र लघुभूमिकाम् अभिनीतवान्। अस्मिन् वर्षे एव ‘रूपकोदयस्य' पञ्जीकरणम् अभवत्। तदनन्तरं प्रतिवर्षं रूपकोदयेन स्पर्धासु पारितोषिकं प्राप्तम्। 'मोहवनम्' इति प्राप्तपुरस्कारे नाटके सभायाः कोषाध्यक्षः सेनाड-प्रकाशः लघुभूमिकाम् अभिनीतवान् । 'बण्डुः अभिनयं करोति' इति प्राप्त-प्रथमपुरस्कारे नाटके सभा-सदस्या गोखलेकल्याणी उत्कृष्ट अभिनेत्री इति, ‘नरकः एव वरम्' इति प्राप्तप्रथमपुरस्कारे नाटके सभा-सदस्यः ठेङ्गडी-सतीशः उत्कृष्ट-अभिनेता इति पुरस्कार प्राप्तवान्। अत्र विशेषतया उल्लेखनीयमस्ति यद् इसवीये २०१३, १४ तमे वर्षेऽपि गृहहीनः', 'नरकः एव वरम्' इति नाटकद्वयेन संहिता-लेखनस्य पुरस्कारः प्राप्तः। तत्पूर्वं राज्यस्पर्धायां संस्कृत-लेखनस्य पुरस्कार: एव नैव दीयते स्म। पुरस्कारस्य प्रारम्भः एव रूपकोदयेन कृतः इति मन्ये। उपर्युक्तस्य नाट्यद्वयस्य संहितालेखनम् अपि, अद्यतनीयायाः सभाध्यक्षया डॉ. लीना रस्तोगीमहोदयया कृतमासीत्। नाटकेषु लिखितानि गीतानि प्रेक्षकैः तालिकावादनेन अभिनन्दितानि। एतासां प्रयोगक्षमाणां संहितानां सङ्कलनं 'संस्कृतभारती' संस्थया रसरङ्ग' इति पुस्तके कृतमस्ति। संहितायाः विषयाः अपि विभिन्नाः सन्ति। कन्यावसतिगृहम्, विनोदिप्रहसनम्, विवाह-विच्छेदः, कन्या-दत्तक-विधानम्, वैज्ञानिकस्य कौटुम्बिक-समस्याः इत्यादयः विषयाः लेखिकया सुष्ठु चित्रिताः सन्ति। 'निर्भया-हत्या' इति सत्यघटनाधारिता 'विकसतु एषा कलिका' नाम्नी नाटिका अपि राज्यस्पर्धायां प्रथम पुरस्कार प्राप्तवती। राष्ट्रिय-संस्कृत-संस्थानस्य अखिल-भारतीय-नाट्यमहोत्सवे त्रिपुरा-अगरतला इत्यत्र अस्याः नाटिकायाः प्रस्तुतिः रसिकैः प्रशंसिता। २०१५ तमे ख्रिस्ताब्दे संस्थायाः उपाध्यक्षा दुर्गा पारखीमहोदया ‘काबुलीवाला' इति नाट्यसंहितायाः कृते लेखनपुरस्कार प्राप्तवती। नाटकस्य प्रस्तुतेः द्वितीय पुरस्कार, अभिनयस्य च प्रथमपुरस्कारं विनयः मोडकः प्राप्तवान्।

अस्मिन् वर्षेऽपि द्वितीयपुरस्कारेण गौरविता अस्माकं सभा। कार्यकारिणी-सदस्य: विनयः मोडकः अभिनयस्य प्रथमपुरस्कार प्राप्तवान्। कोषाध्यक्ष: रवीन्द्रः सङ्गवई अभिनय-प्रमाणपत्रं प्राप्नोत्। दिग्दर्शनमकरोत् कार्यकारिणी सदस्या कल्याणी गोखले। नाट्यसंहिता विरचिता आसीत् सभायाः परीक्षाविभागप्रमुखा डॉ. हंसश्री मराठेमहोदयया। अद्यतन कविकुलगुरु-कालिदासविश्वविद्यालयः, नागपुरम्, मुम्बई, पुणे, त्रिपुरा-अगरताला, चेन्नई, सोमनाथ विश्वविद्यालय:,गान्धि- नगर गुजरात, अ.भा. प्राच्यविद्यापरिषद्, सागर विश्वविद्यालयः आदिषु स्थानेषु रूपकोदयस्य नाट्यप्रयोगाः प्रशंसिताः। एवं 'रूपकोदय' संस्थायाः आलेख: प्रतिवर्षं वर्धिष्णुः एवास्ति। ये अभिनेतारः पूर्वं संस्कृतं सम्भाषणं कण्ठस्थी-कृत्य अभिनयं कुर्वन्ति स्म ते अधुना संस्कृतेन सम्यक् वक्तुं शक्नुवन्ति। आबालतरुणवृद्धाः अस्य सदस्याः। अनेन प्रकारेण रूपकोदयस्य निर्मितिहेतुः संस्कृतस्य प्रचारोऽपि सफलतां गतः। भविष्यत्का-लेऽपि रूपकोदयम्' उत्तमोत्तमानां नाटकानां निर्मितिं करिष्यति इत्यत्र नास्ति संशयलेशः।


Copyright © Sanskrit bhasha pracharni sabha All rights reserved.